श्रीवैष्णवस्तोत्रमाला

बैशाख १८ गते, शुक्रबार
May 1, 2026

श्रीरामानुजचरितम्

श्रीरामानुजचरितम्


श्रीभूकेशवसोमयाजितनयः श्रीभूतपूर्योद्भवो

हारीतान्वयदुग्धवारिधिविधुः शेषस्य मूर्तिः परा ।

गायत्रीश्रुतिसंप्रदायसरणीः प्राप्यैव यस्ताततो

व्याख्यां यादवमुख्ययोगिकलितां ज्ञातुं तदन्तेद्रवसत् ॥१॥


काञ्च्यां हस्तिगिरिश्रितेन महता श्रीयामुनेयेन यो

दृष्टो यादवशिष्यगोष्ठ्युपगतः प्रीत्याद्रस्मदीयोद्रस्त्विति ।

यस्यार्थे शरणं प्रपद्य वरदं तस्मिन् स्वेदेशं गते

योद्रसौ यादवनीत ऐच्छदनघो गङ्गादितीर्थाटनम् ॥२॥


कप्यासश्रुतिमुख्यचिन्तनविधौ भग्नो गुरुः स्वात्मनेद्र

निष्टं चिन्तयतीति सोदरमुखात् विज्ञाय यात्रां त्यजन् ।

एकाकी विपिने विचिन्त्य वरदं तस्थौ य एष क्षणात्

कैराताकृतिदिव्यदम्पतिवशः काञ्चीं समासादयत् ॥३॥


तीर्थापेक्षिकिरातरूपकमलाकान्तोपचारं चिरं

कुर्वन् यामुनयोगिवर्यकलिते स्तोत्रे कदाचित् श्रुते ।

तत्सेवात्वरितोद्रपि यो यतिवरश्रीदेहमात्रेक्षणात्

दूनोद्रभूदथ तन्मनोरथमहापूत्र्यै च यत्नं व्यधात् ॥४ ॥


काञ्चीपूणर्मुखादवेत्य भगवद्भावं स्वयं प्रस्थितः

मध्ये यो मधुरान्तके श्रितमहापूर्णाङ्घ्रिपद्मोद्रर्थवित् ।

आज्ञां तस्य वतंसयन् अधिगतः श्रीयामुनेयाश्रितान्

गोष्ठीपूणर्मुखान् परानपि महाप्राज्ञो बभौ भूतले ॥५॥


श्रीकूरेशसहाय एव सहसा काश्मीरदेशं गतः

यो बोधायनवृत्तिमद्भुतरसाम् आन्तं निरीक्ष्याद्रद्रगतः ।

वेदार्थं च समग्रहीत् बहुविधप्राच्योक्तिरक्षी व्यधात्

श्रीभाष्यं त्वथ दीपसारसहितं भाष्यञ्च गीताश्रितम् ॥६॥


प्राप्तो यो यतिराजतां बहुशतैश्छात्रैः शुभैर्योगिभिः

संख्यातीतगृहस्थसेवितपदो देशान् अटन् ऐधत ।

अद्वैतादिमतं निरस्य सगुणश्रीशैकनिष्ठां हरि-

द्वारात् सेतुपदावधि प्रचुरयन् देवालयान् पालयन् ॥७॥


शेषाद्रौ विनुतोद्रथ मातुलवरश्रीशैलपूर्णादिभिः

श्रीरङ्कादिपष्किृतिं विरचयन् शैवञ्च विध्वंसयन् ।

श्रीनारायणशैलश्रृङ्कभुवि यः श्रीशं प्रष्ठिापयन्

लोकक्षेमपरो भुवं व्यतुनुत श्रीवैष्णवैकाञ्चितम् ॥८॥


इत्थं श्रीकरिशैलवेंकटगिरिश्रीयादवाद्रिप्रभृ-

त्यार्यक्षेत्रपरिष्कृतेः परमसौ श्रीरङ्कवासी भवन् ।

दिव्यद्रामिणवेदबोधनपरः श्रीव्यासबोधायन-

श्रीमन्नाथमुनीन्द्रदर्शितपथानीताखिलार्यव्रजः ॥९॥


सर्वज्ञैः स्वकदर्शनप्रचरणं कुर्वंश्चतुःसप्ततौ

पीठेषु श्रितवत्सलैः प्रपदनं प्रख्याप्य मुक्तौ हितम् ।

भक्तिज्ञानविरक्तिशीलनिगमाचारादि पुष्णन् भुवि

ख्यातोsभूत् अयमस्तु मे ह्दि सदा रामानुजार्यो मुनिः ॥ १० ॥


श्रीवीरराघवाचार्यमहादेशिकैः विरचितं श्रीरामानुजचरितम्

Author Avatar
Written By Devraj Poudel
Share:
👍 ❤️ 😂 😮 😢 😠
Tools:

Comments (0)

Log in to post a comment.

Success
Action completed successfully!
Notifications

Welcome!

Login to access your account

Login / Register About Contact Us Privacy Policy
×