श्रीभीष्म उवाच 


इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं 
प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ १ ॥

त्रिभुवनकमनं तमालवर्णं 
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं 
विजयसखे रति्रस्तु मेऽनवद्या ॥ २ ॥

युधि तुरगरजोविधूम्रविष्वक्
कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३ ॥

सपदि सखिवचो निशम्य मध्ये 
निजपरयोर्बलयो रर्थं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा 
हृतवति पार्थसखे रतिर्ममास्तु ॥ ४ ॥

व्यवहितपृतनामुखं निरीक्ष्य 
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया यश् 
चरणरति: परमस्य तस्य मेऽस्तु ॥ ५ ॥

स्वनिगममपहाय मत्प्रतिज्ञा
मृतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ६ ॥

शितविशिखहतो विशीर्णदंशः 
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं 
स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ७ ॥

विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षो-
र्यमिह निरीक्ष्य हता गताः सरूपम् ॥ ८ ॥

ललितगतिविलासगुल्गुहास
प्रणयनिरीक्षणकल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः 
प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ९  ॥

मुनिगणनृपवर्यसङ्कुलेऽन्तः -
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ १० ॥

तमिममहमजं शरीरभाजां 
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं 
समधिगतोऽस्मि विधूतभेदमोहः ॥ ११ ॥