याज्ञवल्क्य शिक्षा


श्रीयाज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामः

उदात्तश्चानुदात्तश्च स्वरितश्च तथैव च ।
लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च ।। १
शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यते ।
श्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् ।।२
नीचे सोमं विजानीयात्स्वरिते सविता भवेत् ।
उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ।। ३
वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम्
नीचं गौतममित्याहुर्गार्ग्यं च स्वरितं विदुः ।। ४
विन्द्यादुदात्तं गायत्रं नीचं त्रैष्टुभमुच्यते
जागतं स्वरितं विन्द्यादत एवं नियोगतः ।। ५
गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः
त एव वेदे विज्ञेयास्त्रय उच्चादयः स्वराः ।। ६
उच्चौ निषादगान्धारौ नीचौ ऋषभधैवतौ
शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ।। ७
षड्जो वेदे शिखण्डिः स्यादृषभः स्यादजामुखे
गवा रम्भन्ति गान्धारं कौञ्चाश्चैव तु मध्यमम् ।। ८
कौकिलः पञ्चमो ज्ञेयो निषादं तु वदेद्गजः
आश्वश्च धैवतो ज्ञेयः स्वराः सप्त विधीयते ।। ९
निमेषमात्रः कालः स्याद्विद्युत्कालस्तथापरे
अक्षरात्तुल्ययोगाच्च मतिः स्यात्सोमशर्मणः ।। १०
सूर्यरश्मिप्रतीकाशात्कणिका यत्र दृश्यते
अणवस्य तु सा मात्रा मात्रा च चतुराणवा ।। ११
मानसे चाणवं विन्द्यात्कण्ठे विन्द्याद्द्विरावणम्
त्रिराणवं तु जिह्वाग्रे निःसृतं मात्रिकं विदुः ।।१२
अवग्रहे तु कालः स्यादर्धमात्रा विधीयते
पदयोरन्तरे काल एकमात्रा विधीयते ।। १३
ऋचोर्धे तु द्विमात्रः स्यात्त्रिमात्रः स्यादृगन्तके
रिक्तं तु पाणिमुत्क्षिप्य द्वे मात्रे धारयेद्बुधः ।। १४
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् १५
विवृतौ चावसाने च ऋचोर्धे च तथापरे
पदे च पादसंस्थाने शून्यहस्तं विधीयते
प्रणवं तु प्लुतं कुर्याद्व्याहृतीर्मातृका विदुः १६
चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत्
शिखी वदति त्रिमात्रां मात्राणामिति संस्थितिः १७
वर्णो जातिश्च मात्रा च गोत्रं छन्दश्च दैवतम्
एतत्सर्वं समाख्यातं याज्ञवल्क्येन धीमता १८
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरि स्थितौ
गुरोरनुमतं कुर्यात्पठन्नान्यमतिर्भवेत् १९
ऊरुभागे तृतीये तु करं विन्यस्य दक्षिणम्
प्रसन्नमानसो भूत्वा किंचिन्निम्नमधोमुखम् २०
प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम्
सावित्रीं चानुपूर्व्येण ततो वेदान्समारभेत् २१
कूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दृढं मनः
स्वस्थः प्रशान्तो निर्भीको वर्णानुच्चारयेद्भुधः २२
नाभ्याहन्यान्न निर्हन्यान्न गायेन्नैव कम्पयेत्
यथैवोच्चारयेद्वर्णांस्तथैवैतान्समापयेत् २३
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत्
सममुच्चारयेद्वर्णान्हस्तेन च मुखेन च २४
स्वरश्चैव तु हस्तश्च द्वावेतौ युगपद्भवेत्
हस्तभ्रष्टः स्वरभ्रष्टो न वेदः फलमश्नुते २५
न करालो न लम्बोष्ठो नाव्यक्तो नानुनासिकः
गद्गदो बद्धजिह्वश्च न वर्णान्वक्तुमर्हति २६
प्रकृतिर्यस्य कल्याणी दन्तष्ठौ यस्य शोभनौ
प्रगल्भश्च विनीतश्च स वर्णान्वक्तुमर्हति २७
शङ्कितं भीतमुद्धृष्टमव्यक्तमनुनासिकम्
काकस्वरं मूर्ध्निगतं तथा स्थानविवर्जितम् २८
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम्
व्याकुलं तालुहीनं च पाठदोषाश्चतुर्दश २९
संहितासारबहुलः पदसंज्ञासमाकुलः
क्रमसंधिसमाकीर्णो दुस्तरो मन्त्रसागरः ३०
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः
साम्नां वा सरहस्यां च सर्वपापैः प्रमुच्यते ३१
संहिता नयते सौर्यं पदं च शशिनः पदम्
क्रमश्च नयते सूक्ष्मं यत्तत्पदमनामयम् ३२
कालिन्दी संहिता ज्ञेया पदयुक्ता सरस्वती
क्रमेणावर्तयेद्गङ्गा शंभोर्वाणी तु नान्यथा ३३
यथा महाह्रदं प्राप्य क्षिप्तो लोष्टो विनश्यति
एवं दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ३४
आम्रपालाशबिल्वानामपामार्गशिरीषयोः
वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ३५
खदिरश्च कदम्बश्च करवीरकरञ्जकौ
एते कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः ३६
तेनास्यकरणे सूक्ष्मं माधुर्यं चैव जायते
त्रिफला लवणाक्तेन भक्षयेच्छिष्यकः सदा
क्षीणमेधाजनन्येषा स्वरवर्णकरी तथा ३७
हस्तहीनं तु योऽधीते मन्त्रं वेदविदो विदुः
न साधयति यजूँषि भुक्तमव्यञ्जनं यथा ३८
हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ३९
ऋचो यजूँषि सामानि हस्तहीनानि यः पठेत्
अनृचो ब्राह्मणस्तावद्यावत्स्वारं न विन्दति ४०
ज्ञातव्यश्च तथैवार्थो वेदानां कर्मसिद्धये
पठन्मात्रापपाठात्तु पङ्के गौरिव सीदति ४१
स्वरवर्णप्रयुञ्जानो हस्तेनाधीतमाचरन्
ऋग्यजुःसामभिः पूतो ब्रह्मलोकमवाप्नुयात् ४२
न कुर्वीत पदं दीर्घं न कुर्वीत विलम्बितम्
पदस्य ग्रहमोक्षौ च यथा शीघ्रगतिर्हयः ४३
आगमं कुरु यत्नेन कारणं हि तदात्मकम्
आस्येन च शयं कुर्यात्पठन्नान्यमतिर्भवेत् ४४
न चास्य मुष्टिबन्धी स्यान्न चात्युत्तममाचरेत्
चुलुर्नौका स्फुटो दण्डी स्वस्तिको मुष्टिराकृतिः
एते वै हस्तदोषाः स्युः परशुश्चैव सप्तमः ४५
यथा वाणी तथा पाणी रिक्तं तु परिवर्जयेत्
यत्र यत्र स्थिता वाणी पाणिस्तत्रैव तिष्ठति ४६
यथा धनुष्यावितते शरे क्षिप्ते पुनर्गुणः
स्वस्थानं प्रतिपद्येत तद्वद्धस्तगतः स्वरः ४७
उत्तानं सोन्नतं किंचित्सुव्यक्ताङ्गुलिरञ्जितम्
स्वरविद्धं करं कुर्यात्प्रादेशोद्देशगामिनम् ४८
अङ्गुष्ठस्योत्तरे पर्वे तर्जन्योपरि यद्भवेत्
प्रादेशस्य तु सोद्देशस्तन्मात्रं चालयेत्करम् ४९
मनुष्यतीर्थोच्चं कृत्वा पितृतीर्थोदकं व्रजेत्
नामितं करपृष्ठे तु सुव्यक्ताङ्गुलिमोक्षणम् ५०
स्वरिते त्र्यङ्गुलं विन्द्यान्निपाते तु षडङ्गुलम्
उत्थाने तु नवाङ्गुल्यमेतत्स्वरस्य लक्षणम् ५१
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बिताम् ५२
ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिता
अग्निमारुतयोर्वृत्तिः सर्वशास्त्रेषु निन्दिता ५३
मुष्ट्याकृतिर्मकारे तु नकारे तु नखाग्रतः
अनुस्वारेऽङ्गुष्ठक्षेप ऊष्मान्तेऽङ्गुलिमोक्षणम् ५४
उदात्तं भुवि पातेन प्रचयं नोग्र एव च
शेषं षडङ्गुलं विन्द्यान्निचितं तु विधीयते ५५
षडङ्गुलं तु जात्यस्य हस्तस्यानुपथस्य च
तच्चतुर्भागमात्रं तु हस्तस्तेनैव वर्तयेत् ५६
ककारान्ते टकारान्ते ङणे चाङ्गुलि नामयेत्
पञ्चाङ्गुल्यमकारे च तकारे कुण्डलाकृतिः ५७
ऊर्ध्वक्षेपाच्च योष्मा च अधःक्षेपाच्च यो भवेत्
एकैकमुत्सृजेद्धीरः स्वरिते तूभयं क्षिपेत् ५८
अङ्गुष्ठाकुञ्चनं लब्धौ अनुस्वारे त्वपाँरसम्
दीर्घे रङ्गे च तर्जन्याः प्रसारः परिकीर्तितः ५९
तर्जन्यङ्गुष्ठयोः स्पर्शेऽप्युदात्तं प्रतिविद्यते
नीचं तु मध्यमं कुर्याच्छेषं नीचतरं क्रमात् ६०
स्वरितं यद्भवेत्किंचिद्वकारसहसंयुतम्
ऊष्माणं तद्विजानीयान्निक्षिपेदुभयोरपि ६१
स्वरिते च विनिक्षिप्ते संयोगो यत्र दृश्यते
द्विमात्रिके भवेदेकमात्रिके तूभयं क्षिपेत् ६२ १.६७
जात्ये च स्वरिते चैव वकारो यत्र दृश्यते
कर्तव्यस्तूभयोः क्षेपो वायव्य इति दर्शनम् ६३
शृङ्गवद्वाथ वत्सस्य कुमारीकुचयुग्मवत्
उभक्षेपस्वरो यत्र स विसर्ग उदाहृतः ६४
विसर्गान्तस्वरो यत्र स्वरितो यत्र दृश्यते
दीर्घश्चैव तुकारश्च तत्रोभक्षेप उच्यते ६५
त्रिविधस्तु भवेदूष्मा प्रचिता बलकान्तरा
स्वरिते प्रचितां विद्यान्निपाते बलकां विदुः ६६
उत्थाने तु तथा तारा एताभिस्त्रिभिरूष्मभिः
मात्रामात्रां विदित्वा तु ततः क्षेपं प्रयोजयेत् ६७
अक्षरं भजते काचित्काचिद्वित्ते प्रतिष्ठिता
समाने जातिका काचित्काचिदूष्माप्रदायिका ६८
यथा बालस्य सर्पस्य उच्छ्वासो लघुचेतसः
एवमूष्मा प्रयोक्तव्यो हकारः परिवर्जितः ६९
विवृतिं प्रत्यया ऊष्मां प्रवदन्ति मनीषिणः
तामेव प्रतिषेधन्ति आईऊए इति निदर्शनम् ७०
अष्टौ स्वरान्प्रवक्ष्यामि तेषामेव तु लक्षणम्
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टश्च तथापरः ७१
पादवृत्तस्तथा भाव्य इतिस्वराः
एकपदे नीचपूर्वः सयवो जात्यः एकपद इत्याह ७२
नीचपूर्वः सयकारवकारौ वा जात्यः स्वरितो भवति । यथाजात्यं मनु-
ष्यानिति सुद्येति चम्वीव धान्यम् कन्या इव स्वः वीर्यं एवँह्याह यानि चा-
न्यानीदृग्लक्षणानि पदानि भवन्ति । ऎ आभ्यामुदात्ताभ्यामकारो रिफि-
तश्च यः । अकारो यत्र लुप्येत तं चाभिनिहितं विदुः ७३
यथा कुक्कुटः--असि कुक्कुटोसि । वेदः - असि वेदोसि । भागः--असि
भागोसि । मारुतः-असि मारुतोसि । श्वात्रः-असि श्वात्रोसि । ते-अप्सरसाम् तेप्सरसाम् । ते-अवन्तु तेवन्तु । कः-असि कोसि । सः-अहं सोहं । एवँहि यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति ।
इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित् । अनुदात्ते पदे नित्यं विन्द्यात्क्षै-
प्रस्य लक्षणम् ७४
यथा त्रि-अम्बकम् त्र्यम्बकम् । द्रु-अन्नः द्र्वन्नः । वीडु-अङ्गः वीड्वङ्गः
। वाजी-अर्वन् वाज्यर्वन् । एवँह्याह यानिचान्यानीदृग्लक्षणानि पदानि भवन्ति । इकारो यत्र दृश्येत इकारेणैव संयुतः । उदात्तश्चानुदा-
त्तेन प्रश्लिष्टो भवति स्वरः ७५
अभि-इन्धताम् अभीन्धताम् । अभि-इमं अभीमम् । वि-इहि वीहि ।
स्रुचि-इव स्रुचीव । चम्वी-इव चम्वीवेति । एवँह्याह यानि चान्या-
नीदृग्लक्षणानि पदानि भवन्ति ।
उदात्तपूर्वं यत्किंचिच्छन्दसि स्वरितं पदम्
एष सर्वं बहुस्वारस्तैरो व्यञ्जन उच्यते ७६
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते अदिति सरस्वति महि विश्रुतीति भवन्ति ।
एवँह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति
अवग्रहात्परो यस्तु स्वरितः स्यादनन्तरम्
तैरो विरामं तं विन्द्यादुदात्तो यद्यवग्रहः ७७
यथा गोमदिति गो-मत् । गोपताविति गो-पतौ । प्रप्रेति प्र-प्र । वि-
ततेति वि-तता । समिद्ध इति सम्-इद्धः । एवँह्याह यानि चान्या-नीदृग्लक्षणानि पदानि भवन्ति । स्वरेति स्वरिते चैव विवृतिर्यत्र दृश्यते । पादवृत्तो भवेत्स्वारः श्वित्र आदित्येति निदर्शनम् । श्वित्रः-आदित्यानाम् श्वित्र आदित्यानां । पुत्रः-ईधे-पुत्रईधे । दात्रे-एधि दात्र एधि । कः-ईम् कईम् । ताः-अस्य ताअस्य । एवँह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति । उदात्ताक्षरयोर्मध्ये भवेन्नीचस्त्ववग्रहः ।
तथा भाव्यं भवेत्कम्पस्तनूनप्त्रेति निदर्शनम् ७८
यथा तनूनप्त्र इति तनू-नप्त्रे । तनूनपादिति तनू-नपात् । तनूनपातमिति
तनू-नपातम् । एवँह्याह यानि पदानि लक्षणानि भवन्ति ।
इत्यष्टपदसमाम्नाये वैशेषिके याज्ञवल्क्यवचनानां पदानां पाठः समाप्तः ॥

माध्यंदिनविरोधि स्यात्तथा भाव्यस्तु यः स्मृतः
स्वरो नैवात्र दृश्येत भिन्नोदात्तानुदात्तकौ २.१
स्वराः स्पर्शान्तः-स्थोष्माणः ।
कण्ठ्यजिह्वामूलीयतालव्यमूर्धन्यदन्त्योष्ठ्ययमा विसर्जनीयनिपाताद्याश्च किंवर्णदैवत्यलिङ्गाः स्वराः शुक्लाः नानादैवत्याः । स्पर्शाः कृष्णाः । कपिला अन्तस्थाः । ऊष्माणोऽरुणाः । नीला यमाः । हरिता नासि-क्याः । पीतोऽनुस्वारः । रक्तो जिह्वामूलीयः । पीत उपध्मानीयः । श्वेतो विसर्जनीयः । शबलो रङ्गः । नीलोऽनुनासिक्यः । इत्यन्तर्मध्य-मयोर्नासिक्यं विद्यात् । द्विरुदात्ताख्या इति स्मृतः । उदमनुदनिपाते आद्ये चोपसर्गे नामाख्याते चोपसर्गनिपाताश्चेति किंदैवत्याः । अक्षराणां च के पुरुषाः काः स्त्रियः कानि नपुंसकानीत्यत्र ब्रूमः । कण्ठ्या आग्नेया अकारादयः । जिह्वामूलीया नैऋर्त्याः ककारादयः । तालव्याः सौम्या-श्चकारादयः । वायव्या मूर्धन्याष्टकारादयः । रौद्रा दन्त्यास्तकारादयः ।
औष्ठ्या आश्विन्याः पकारादयः । शेषा वैश्वदेवाः अं इत्येवमादयः ।
स्वरास्तु ब्राह्मणा ज्ञेया वर्गाणां प्रथमाश्च ये
द्वितीयाश्च तृतीयाश्च चतुर्थाश्चापि भूमिपाः २
वर्गाणां पञ्चमा वैश्या अन्तस्थाश्च तथैव च
ऊष्माणश्च हकारश्च शूद्रा एव प्रकीर्तिताः ३
शुक्लवर्णानि नामानि आख्याता रोहिता मताः
कपिञ्जलास्तूपसर्गाः कृष्णाश्चैव निपातकाः ४
भार्गवगोत्राणि नामानि भारद्वाजा आख्याताः
वासिष्ठा उपसर्गास्तु निपाताः काश्यपाः स्मृताः
पीतवर्णश्चोपसर्गो निपातः कृष्णवर्णकः
सर्वं तु सौम्यमाख्यातं नाम वायव्यं दृश्यते
आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः ५
प्रथमाश्च तथान्तस्थाः स्त्रीलिङ्गाः परिकीर्तिताः
शेषाक्षराणि षण्ढानि प्राहुर्लिङ्गविवेचकाः ६
नाम्नामिन्द्रो देवता वरुणः उपसर्गाणामादित्यः सर्वस्याक्षरगणस्य स्वरा वि-
सर्जनीयो यमाश्च पुँल्लिङ्गाः । ङञणनमा यरलवाः स्त्रीलिङ्गाः ।
शेषाण्यक्षराणि नपुंसकलिङ्गानीति । संधिश्चतुर्विधो भवति लोपागमौ वर्णविकारः प्रकृतिभावश्चेति । तद्यथा-तत्र लोपो भवति अयक्ष्माः-मा अयक्ष्मामा । शततेजाः-वायुः शततेजावायुः । तिग्मतेजाः-द्विषतः तिग्मतेजाद्विषतः ॥ इति लोपः ॥ आगमो भवति-यथा प्रत्यक् सोमः प्रत्यङ् सोमः प्राक्सोमः प्राङ्सोमः अस्मान् सीते अस्मान्त्सीते त्रीन् समुद्रान् त्रीन्त्समुद्रान् । इति आगमः । विकारो भवति आ-इदम् एदम् । आ-इमे एमे । आ-इष्टयः एष्टयः । प्र-इषितः प्रेषितः इति विकारः प्रकृतिभावः यथा-आशुः शिशानः । युञ्जानः प्रथमम् । अदितिः षोडशाक्षरेण । देवो वः सविता । इति प्रकृतिभावः ॥
आकाशस्था यथा विद्युत्स्फुटितं मणिसूत्रवत्
एष च्छेदो विवृतीनां यथा बालेषु कर्तरी ७
द्वयोस्तु स्वरयोर्मध्ये संधिर्यत्र न दृश्यते
विवृतिस्तत्र विज्ञेया यईशेति निदर्शनम् ८
पिपीलिका पाकवती तथा वत्सानुसारिणी
वत्सानुसंसृता चैव चतस्रस्तु विवृत्तयः ९
पञ्च रङ्गाः प्रवर्तन्ते घातनिर्घातवज्रिणः
अहरप्रहरो ज्ञेय ऐउऋओ-इति निदर्शनम् १०
पिपीलिका आद्यन्तदीर्घा नाभ्या आसीदिति निदर्शनम्
पाकवत्युभयोर्ह्रस्वा विन इन्द्रेति निदर्शनम् ११
अन्ते च वत्सानुसृजता ता न आवोढमश्विनेति निदर्शनम्
वत्सानुसारिणी चादौ दीर्घा ताअस्येति निदर्शनम् १२
करिणी कुर्विणी चैव हरिणी हारिणीति च
तथाहंसपदा नाम पञ्चैताः स्वरभक्तयः १३ २.१३
करिणी रहयोर्योगे कुर्विणी लहकारयोः
हरिणी रषयोर्योगे हारितं ऋषकारयोः १४
या तु हंसपदा नाम सा तु रेफषकारयोः
हरिणी हरयोर्विद्यात्कुर्विणी हलकारयोः १५
देवं बर्हिरिति करिणी उपवल्हेति कुर्विणी
हरिणी अरेपस इत्याहुर्हारिणी शतवल्शेति[५] च १६
वर्षोवर्षीयतेसीति तथा हंसपदेति च
स्वरभक्तिं प्रयुञ्जानस्त्रीन्दोषान्परिवर्जयेत् १७