उपाकर्मार्थे विशेषस्नानविधिः

अस्नात्वा नाचरेत्कर्म जपहोमादिकन्तथा।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥
  
स्रवत्येव दिवारात्रं तस्य स्नानं विशोधनम् ।
विधिना ह्याचरेत् स्नानं स्नात्वा कार्यं समाचरेत् ॥

शिष्यसहिताचार्योपाकर्माङ्गस्नानं कर्तुङ्गोमूत्रगोमयगोदुग्धगोदधिगोघृतदुर्वापुष्पमृत्तिकाऽऽपामार्गादीनि तीर्थस्नानोपयोगि- वस्तूनि संपाद्य श्रीवैष्णवैः शिष्यैब्राह्मणैः सह यथा सम्भवजलाशयसमीपे गत्वा सर्वमुण्डनं कुर्यात् ।

आत्मनः शुद्धि कामो वा पितृणां मुक्तिहेतवे ।
वपनं कारयिष्यामि तीरेऽहं तव जाह्नवी ॥
यानि कानि च पापानि ब्रह्महत्या समानि च ।
  
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥
 इत्युक्त प्रकारेण वपनं कृत्वा स्नानादिना निवृत्य तीर्थ-प्रार्थनां कुर्यात्

तीर्थ-प्रार्थना

तीर्थराजाय नमः
इति तीर्थम्प्रणम्याञ्जलिं बद्ध्वा प्रार्थयेत्

सागरस्यतु निःश्वासो दण्डहस्ताऽसुरान्तकः ।
  
जगत्स्रष्टर्जगन्नाथ नमामि त्वा सुरेश्वरम् ॥
  
अधिष्ठात्र्यश्च तीर्थानां तीर्थेषु निवसन्ति याः ।
देवतास्ताः प्रयच्छन्तु स्नानाज्ञा मम सर्वथा ॥

कर्मपात्रं निर्माणविधिः 

ताम्रपात्रे कांस्यपात्रे वा शंखचक्रं विलिख्य अभिमन्त्रणं कुर्यात्  ।  

ॐ यद्देवा देवहेडनन्देवासश्चकृमा व्वयम् ।
अग्निर्म्मा तस्मादेनसो व्विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि दिवा यदि नक्तमेनाᳩसि चकृमा व्वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि जाग्रद्यदि स्वप्नऽएना सिᳩचकृमा व्वयम् ।
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥ 


 कर्मपात्रे पवित्रं  प्रक्षिपेत् 
ॐ  पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्यरश्मिभिः ।
तस्यते पवित्रपते पवित्रपूतस्ययत्कामः पुने तच्छकेयम्‌ ॥

 कर्मपात्रे जलं  प्रक्षिपेत् 
ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तु पीतये । शंय्योरभिस्रवन्तु नः ।

 कर्मपात्रे चन्दनं प्रक्षिपेत् 
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‌ ।
 ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्‌ ॥


 कर्मपात्रे तिलान् प्रक्षिपेत् 
    ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः ।
प्रत्क्नमद्भिः पृक्तः स्वधया पितृँल्लोकान्‌ प्प्रीणाहिनः स्वाहा ॥ 

 कर्मपात्रे यवान्  प्रक्षिपेत् 
ॐ यवोसियवयास्मदद्वेषोयवयारातिःदिवेत्वान्तरिक्षायत्वा पृथिव्यैत्वाशुन्धन्ताँल्लोकाः पितृषदनाः पितृषदनमसि ॥ 

 कर्मपात्रे अक्षतां प्रक्षिपेत् 
ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत ।
अस्तोषतस्वभानवो व्विप्प्रानविष्ठयामतीयोजान्न्विन्द्रते हरी ॥

 कर्मपात्रे पुष्पाणि प्रक्षिपेत् 
ॐ श्रीश्चते लक्ष्मीश्चपत्क्न्यावहोरात्त्रेपार्श्वेनक्षत्राणि रूपमश्विनौ व्यात्तम्‌ ।
 इष्णन्निषाणामुम्मऽइषाण सर्व्वलोकम्मऽइषाण ॥ 

तज्जलेन आत्मानं अन्यान् स्नानद्रव्याणि च  त्रिवारं सिञ्चेत् 

ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा।
यः स्मरेत्‌ पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ॐ पुण्डरीकाक्षः पुनातु ३ । 

 पञ्चगव्यविधानम्‌ 

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । 
    इदृशं पञ्चगव्यं च पवित्रं कायशोधनम् 
 तण्डुलादिना पञ्चकोष्ठिकां वेदीं निर्माय तत्तत्देवतां पूजयेत् 
१. पूर्वस्मिन् एकमात्रा गोमूत्रम्  ।
 २. दक्षिणे अंगुष्ठार्धं गोमयम्  ( गोबर ) ।
३. पश्चिमे सप्तमात्रा गोदुग्धम् ।
४. उत्तरस्मिन् त्रिमात्रा गोदधि ।
५. मध्ये  एकमात्रा गोघृतं  ।
६. ईशाने एकमात्रा  कुशोदकं स्थापयेत्  ।

 १. गोमूत्रे  विष्णुं आवाहयित्वा पूजां कुर्यात् 
 ॐ विष्णोरराटमसिव्विष्णोः श्नप्त्रेस्थोव्विष्णोःस्यूरसिव्विष्णोर्धुवोसिव्वैष्णवमसिव्विष्णवे त्वा ॥
ॐ  विष्णवे नमः विष्णुम्‌ आवाहयामि स्थापयामि पूजयामि ।

२. गोमये ब्रह्माणं आवाहयित्वा पूजां कुर्यात् 
ॐ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतःसुरुचोव्वेनऽआवः ।
सबुध्न्याऽउपमाऽअस्यविष्ठाःसतश्चयोनिमसतश्चव्विवः । 
ॐ ब्रह्मणे नमः ब्रह्माणम्‌ आवाहयामि स्थापयामि पूजयामि । 

३. दुग्धे  अच्युतं आवाहयित्वा पूजां कुर्यात् 
ॐ विष्णोर्न्नुकव्वीर्याणिप्प्रवोचंख्यः पार्थिवानिव्विममेरजा ᳩ सि ।
योऽअस्कभायदुत्तर ꣳ सधस्थंव्विचक्रमाणस्त्रेधोरुगायोव्विष्णवेत्त्वा । 
ॐ अच्युताय नमः अच्युतमावाहयामि स्थापयामि पूजयामि  ।

४. दधनि शुक्रं आवाहयित्वा पूजां कुर्यात् 
ॐ अन्नात्परिस्रुतोरसम्ब्रह्मणाव्यपिबत्क्षत्रं पयः सोमं प्रजापति: ।
ऋतेन सत्यमिन्द्रियंव्विपान 
 शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयो मृतं मधु ॥ 
ॐ शुक्राय नमः शुक्रमावाहयामि स्थापयामि पूजयामि ।

५. घृते  श्रीकृष्णं आवाहयित्वा पूजां कुर्यात् 
ॐ कृष्णोस्यारेष्ठोग्नयेत्वाजुष्टम्प्रोक्षामिव्वेदिरसिबर्हिषेत्वा
जुष्टम्प्रोक्षामिबर्हिरसिस्रुग्भ्यस्त्वाजुष्टम्प्रोक्षाम्म्यदित्यैव्व्युन्दनम्‌ 
ॐ श्रीकृष्णाय नमः श्रीकृष्णम्‌ आवाहयामि स्थापयामि पूजयामि । 

६. कुशोदके सवितारं आवाहयित्वा पूजां कुर्यात् 
ॐ पूषन्नेकर्षेयमःसूर्यप्राजापत्य व्यूहरश्मीन्‌ समूह तेजो यत्ते
रूपं कल्याणतमं तत्ते पश्यामि यो सावसौ पुरुषः सोहमस्मि ॥
ॐ सवित्रे नमः सवितारमावाहयामि स्थापयामि पूजयामि
श्रीभानुं नमस्कृत्य पञ्च गव्यान् एकीकृत्वा संकल्पं कुर्यात् ।
-----------------

सङ्कल्पः

हस्ते जलाक्षतताम्बूलहिरण्यादिकमादाय सङ्कल्पयेत्

 तद्यथा

हरिः ॐ तत्सत् ३ ॐ विष्णुर्विष्णुर्विष्णुः अद्य अस्य श्रीशेष-शेषाशन विष्वक्सेनादि नित्यसूरिनिर्विशेषैः अशेषसज्जनजनसम्भावनीयैः असम्भवदवद्यगन्धैः अनादिमायामहावर्तवम्भ्रम्यमाणबाह्यकथकरं भावनगन्धसिन्धुरैः अधिजिगमिषितमुक्तिघण्टापथैः अखण्डदिङ्मण्डलव्यापि-यशोवितानधवलितजगत्रितयैः औपनिषदरहस्योपदेशदेशिकैः पराङ्कुश-परकाल- नाथयामुनयतिवरादिदिव्यदेशिकैः परमव्योम श्वेतद्वीप क्षीरसागर-श्रीरङ्ग वृषगिरि सत्यव्रत यदुगिरि पुरुषोत्तम साकेत मथुरादिदिव्याभिव्यक्तिप्रदेशेषु समनुष्ठितमङ्गलाशासनस्य निखिलसुरासुरमुकुटमणिमञ्जरी-निकरनीराजितपादपीठस्य शरणागतपरित्राणसप्ततन्तु दीक्षा दीक्षितस्य सरसीरुहवासिनी सहचरितधर्मणः संसरणदवदहनतापनिर्वापणबलाहकस्य जगद्रक्षण शिक्षाविचक्षणस्याच्युतानन्तवीर्यस्य महाजालकमध्यपरिभ्राम्यमाणानेक-कोटिसूर्यप्रभासमेतस्य श्रीभूमिनीलाकुचकलशविन्यस्त कुङ्कुमाङ्कितवक्षस्थलस्य शेषपर्यङ्कशायिनः शंखचक्रगदाखड्गशार्ङ्गपद्महस्तविराजितस्य शौशील्य वात्सल्यादिगुणगणौघ महार्णवस्य श्रीमन्नारायणस्येक्षया नाभिकमलोद्भूतसकललोकपितामहस्य ब्रह्मणः सृष्टिं कुर्वतस्तदुद्धरणाय प्रार्थितस्य महापुरुषस्य अचिन्त्यापरिमितशत्या महाजलौघमध्येपरिभ्राम्यमाणानाम् अनेककोटिब्रह्माण्डानामेकतमे अव्यक्त महदहङ्कार पृथिव्यप्तेजो वाय्वाकाशाद्यावरणैरावृते ह्यस्मिन्महति ब्रह्माण्डखण्डे श्रीमदादिवराह दंष्ट्राग्रविराजितेस्मिन् भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तैकदेशे नेपालराज्ये अमुकनगरे अमुकजनपदे ग्रामे वा परार्ध द्वयजीविनो ब्रह्मणो द्वितीयेपरार्धे एकपञ्चाशत्तमेवर्षे प्रमथमासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीये यामे तृतीये मुहर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमद्रामानुजमुनिप्रादुर्भावात् (श्रीमन्नृपतिवीरविक्रमार्कराज्याद्वा) वर्तमाने अमुकसंवत्सरे अमुकायने अमुक ऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकनक्षत्रे अमुकयोगे अमुक करणे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथा स्थानस्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ अमुकवेदान्तर्गतामुकशाखाध्यायी अमुकगोत्रोत्पन्न अमुकप्रवरान्वितः अमुकशर्माहं (वा अमुकनामदासोऽहं ) भगवत्कैकर्यरूपेण अधीतानामध्येष्यमाणानामध्यायानां स्थापनविच्छेदक्रोशघोषणदन्तविवृत्तिदुर्वृत्तद्रुतोच्चारितवर्णानां पूर्वसवर्णानां गलोपलम्वितविवृतोच्चारित: वर्णानां क्लिष्टास्पष्टवर्णविघटनादिभिः पाठितानां श्रुतीनां यद्यातयामत्वं तत्परिहारार्थम् अष्टात्रिंशदनध्यायाध्ययने रथ्या सञ्चरतः शूद्रस्य श्रृण्वतोऽध्ययने म्लेच्छान्त्यजातेः श्रृण्वतोशुचिदेशेऽध्ययने आत्मनोऽशुचित्वेऽध्ययने च यः प्रत्यवाय तत्परिहारार्थमक्षरमात्रास्वराङ्गहीनपदच्छेदकण्डिका व्यञ्जनविकिरीषस्वरविभक्तिद्विर्भावह्रस्वदीर्घप्लुतौरस्य कण्ठ्य तालव्ययदत्यौष्ठ्यनासिक्यकण्ठ्यनासिक्य तालव्यनासिक्य मूर्धन्य नासिक्यदन्त्यनासिक्य कण्ठ्यतालव्यकण्ठ्यौष्ठ्यदन्त्यौष्ठ्य जिटवामलीयोपध्मानीयोदान्तादिस्वरलक्षणजातिवर्णगोत्रप्रयत्न सञ्चरोच्चारणगुरुलघुलघूत्तरार्द्धक्षेपयमोष्मानुस्वार व्यञ्जनमाधुर्याक्षरव्यक्तिहीनं यत्कृतं वेदाध्यनं तज्जनितपातकनिरासार्थम् नवोपनीतानां शुक्लयजुर्वेदान्तर्गतमाध्यन्दिनीय वाजसनेयशाखानाम् अध्ययनाधिकारसिध्यर्थम् यातयामदोष परिहारार्थम् भगवदपचार भागवतावचारासहयापचाररूप नानाविधानन्तापचारनिवृत्तिपूर्वकम् अशेषचिदचिद्वस्तुशेषीभूतस्य सत्यज्ञानानन्दामलत्वस्वरूपस्य श्रीभूनीलानायकस्य ज्ञानशक्तिबलैश्वर्यवीर्यतेजससौशील्यवात्सल्यस्वामित्व सर्वज्ञत्व सर्वशक्तित्वपरमकारुणिकत्व-कृतज्ञत्व-स्थिरत्व-परिपूर्णत्व-परमोदारत्व मार्दवार्जवसौगन्ध्यसौकुमार्यादि दिव्यगुणगण महार्णवस्य परावरनिखिल जीवाधारपरब्रह्मपरमेश्वर श्रीमन्नारायणस्य तथा भागवतानाम् आचार्याणाञ्च सर्वविधकैङ्कर्ये योग्यतासिद्ध्यर्थं सर्वान्तर्यामि श्रीमन्नारायणसन्निधौ अध्यायोत्सर्गोपाकर्मनिमित्तं विशेषस्नानमहं करिष्ये ।

इति संकल्प्याञ्जलिं वद्ध्वातीर्थप्रार्थनां कुर्यात्

हिरण्यश्रृङ्गं वरुणं प्रपद्ये तीर्थम्मे देहि याचितः ।

त्वं राजा सर्वतीर्थानां तीर्थेषु वसतिस्तव ॥
वरुणाय नमस्तुभ्यं स्नानानुज्ञां प्रयच्छ मे।
याचितं देहि मे तीर्थम् सर्वपापापनुत्तये ॥
आपोनारायणोद्भूता तस्य ता अयनं पुनः ।
तस्मान्नारायणं देवं स्नानकालेस्मराम्यहम् ॥
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि।
एहि गङ्गे नमस्तुभ्यं सर्व तीर्थसमन्विते ॥
विष्णुवामपदांगुष्टनखस्रोतो विनि: सृते ।
त्वद्भक्तिविघ्नरूपात्त्वं गङ्गे मां मोचयैनसः ॥
ॐ उरु ᳩ हिराजा वरुणश्चकार सूर्याय पन्थामन्वे तवाउ ।
  अपदेपादाप्रतिधातवेकरूतापवक्ता हृदयाविधिश्चित् ॥
नमो वरुणायाभिष्ट्वितो वरुणस्य पाशः ।
तेभिर्नोऽअद्यसवितोतविष्णुर्विश्वेमुञ्चन्तुमरुतः स्वार्काः स्वाहा ॥

तीर्थजले एक हस्तपरिमितं दीर्घमायतं चतुरस्रं तीर्थपीठतर्जन्याकृत्वा तत्र गङ्गामावाहयेत्

हस्तयोर्न्युब्जाञ्जलिना तोयमभिमन्त्रयेत् ।

  इति ततो जलं दक्षिणहस्ताङ्गुलिभिर्दक्षिणम् आवर्तयन् पठेत् 

ॐ ये ते शतं वरुण ये सहस्रं यज्ञिया: पासाविततामहान्तः ।

इत्यावर्त्य श्रीमन्नारायणं ध्यायन् त्रिनिमज्ज्योन्मज्ज्य

पञ्चगव्यस्नानं कुर्यात्

शरीरशुद्धर्थं पञ्चगव्यस्नानमहङ्करिष्ये

इति सङ्कल्प्य वक्ष्यमाणमन्त्रं पठन् गोमुत्रेण स्नायात् - 

ॐ भूर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि ।
  धियोयो नः प्रचोदयात् ॥


 ततो गोमयोदकेन स्नायात्
ॐ गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम् ।
  
ईश्वरीं सर्वभूतानां तामिहोपह्वयेश्रियम् ॥

ततो गोदुग्धेन स्नायात्

ॐ आप्यायस्व समेतुते विश्वतः सोमवृष्ण्यम्।
 भवावाजस्य सङ्गथे॥

ततो गोदध्ना स्नायात्
ॐ दधिकाब्णोऽअकारिषञ्जिष्णोरश्वस्य वाजिनः ।
  
सुरभिनोमुखाकरत्प्रण आयू गुङ् षितारिषत् ॥

ततो गोघृतेन स्नायात्

ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि ।
 प्रियन्देवानामनाधृष्टन्देवयजनमसि ॥

अथ मृत्तिकास्नानविधिः
ॐ इदं विष्णुर्विचक्र मे त्रेधानिदधे पदम्।
समूढमस्यपा 
 सुरे स्वाहा ॥

इति शुद्धमृदमादाय भागचतुष्टयं कृत्वा

प्रथमभागमादाय
ॐ अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुन्धरे।
  
शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥
  
इति जलेनार्पयित्वा शिरसि संलिप्य स्नायात्

ततो द्वितीयभागमादाय
ॐ उद्धृतासि वराहेण कृष्णेन शतवाहुना।
मृत्तिके हर मे पापं यन्मयादुष्कृतं कृतम्॥
इति जलेन अर्पयित्वा बाहूवक्षस्थले संलिप्य स्नायात् ।

ततो तृतीयभागमादाय जङ्घयोर्विलिप्य स्नायात्
ॐ मृत्तिके ब्रह्मदत्तासि कश्यपेनाभिमन्त्रिता।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वम्प्रतिष्ठितम् ।

ततश्चतुर्थभागमादाय पादयोर्विलिप्य स्नायात्
ॐ मृत्तिके प्रतिष्ठितं सर्वन्तन्मे निर्णुद मृत्तिके।
त्वया हतेन पापेन गच्छामि परमाङ्गतिम् ॥

प्रायश्चित्तस्नानम्
सर्वपाप निवृत्तिपूर्वशरीरशुद्ध्यर्थ प्रायश्चित्तस्नानमहं करिष्ये ।
 इति सङ्कप्य

ॐ यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रह ।
यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥
ॐ अत्याशनादतिपानाद्यच्च उग्रात्प्रतिग्रहात् ।
तन्नो वरुणो राजा पाणिनाह्यवमर्षतु ।
ॐ सोहमपापो विरजो निर्मुक्तो मुक्त किल्विषः ।
नाकस्य पृष्टमारुह्य गच्छेद्ब्रह्मसलोकताम् ॥
इति प्रायश्चित्तस्नानं कृत्वा कुशैः सर्वाङ्गस्नानं कुर्यात्

वरुणसूक्तम्

ॐ आपोहिष्ठामयोभुवस्तान ऊर्जेदधातनः ।
महेरणाय चक्षसे।
ॐ योवः शिवतमोरसस्तस्य भाजयते हनः।
  
उशतीरिवमातरः।
ॐ तस्माऽअरङ्गमामवो यस्यक्षयाय जिन्वथ ।

आपोजन यथाचनः।

समुद्रज्येष्ठासूक्तम्

ॐ समुद्रज्येष्ठा सलिलस्य मध्यात्पुनानायान्त्यनिविशमानाः ।
इन्द्रो यावज्रीवृषभोररादता आपोदेवीरिह मामवन्तु ।
ॐ यासां राजा वरुणो यातिमध्ये सत्यानृतेऽअवपश्यञ्जनानाम् ॥
मधुश्च्युतः शुचयो याः पावका ताऽआपो देवीरिहमामवन्तु ।
  
ॐ याsआपोदिव्याऽउतवा स्रवन्ति खानित्रियाऽउतवाज्यास्वयञ्जाः।
समुद्रार्थायाः शुचयः पावकास्ता
आपोदेवीरिहमामवन्तु॥
ॐ यासु राजा वरुणो यासु सोमो विश्वेदेवा या सूर्जम्मदन्ति ।
वैश्वानरो यास्वग्निः प्रविष्टस्ताऽआपो देवी रिहमामवन्तु ॥

शुद्धिसूक्तम्

ॐ एतोन्विन्द्र ᳩ स्तवामशुद्ध ꣳ शुद्धेन साम्ना।
शुद्धैरुक्थैर्वावृध्वास ꣳ शुद्ध आशीर्वान्ममत्तु ॥
  
ॐ इन्द्रः शुद्धोन आगहि शुद्धः शुद्धाभिरूतिभिः ।
  
शुद्धोरयिन्निधारय शुद्धोममद्धिसोम्य ॥
  
ॐ इन्द्रः शुद्धोहिनोरयि ꣳ शुद्धो रत्नानिदाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाज ꣳ सिशाससि ॥

पवमानसूक्तम्

ॐ पवमानः सुवर्जनपवित्रेण विचर्षिणः ।
 यः पोतासपुनातुमाम्।

ॐ पुनन्तु मां देवजनाः पुनन्तुवसवो धिया।
विश्वेदेवाः पुनीतमाजातवेदः पुनीहि माम् ॥
  
ॐ पावमानी: स्वस्त्ययनीः सुदुघाहि घृतश्च्युतः ।
ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतं हितम् ॥
ॐ पावमानिर्दिशन्तुन इमं लोक अथोऽअमुम्।
कामान्समर्धयन्तु नो देवीर्देवं समाहिता ॥
ॐ येन देवाः पवित्रेण आत्मानं पुनते सदा।
तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥
ॐ प्राजापत्यं पवित्रं शतोद्याम गूङ् हिरण्मयम् ।
तेन ब्रह्मविदोवयं पूतम्ब्रह्म पुनीहि मे।
इन्द्रः पुनीतिः सहमा पुनातुसोमः स्वस्त्या वरुणः समीच्या 
 यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मूर्जयन्त्या पुनातु ॥
यम्मे गर्भे वसत: पापमुग्रं यज्जायमानस्य च किञ्चिदन्यत्॥
जातस्य च यश्चापि च वर्धतो मे तत्पाबमानीभिरहं पुनामि॥
ॐ ब्रह्म वधात्सुरापानात्स्वर्णत्येयाद्वृषली मैथुनसङ्गमात् ।
गुरो दाराधिगमाच्च तत्पावमानीभिरहं पुनामि।
ॐ दुर्यष्टं दुरधीतं पापं यच्चाज्ञानकृतोऽकृतम्।
अयाजिताँश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि॥
ॐ पावमानी: स्वस्त्ययनीर्याभिर्गच्छन्तिनान्दनम्।
पुण्याँश्च भक्ष्याभक्षयत्यमृतत्वञ्च गच्छति ॥
ॐ पावमानी: पितॄन्देवान्ध्यायेद्यश्च सरस्वतीम् ।
पितृस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ॥
ॐ पावमानं परं ब्रह्मशुक्रञ्ज्योतिः सनातनम् ।
ऋषींस्तस्योपतिष्ठेत क्षीरं सर्पिर्मधूदकम् ॥
ॐ पावमानं परं ब्रह्म ये पठन्ति मनीषिणः॥
सप्तजन्मभवेद्विप्रो धनाड्यो वेदपारगः ॥
 इति कुशैः सर्वाङ्गमार्जनं कृत्वाऽपामार्गमादाय मार्जयेत्

अपामार्गेण मार्जयेत् अथापामार्गस्नानम्
ॐ अपाघमपकिल्विषमपकृत्यामपोरपः ।
अपामार्गत्वमस्मदपदुष्वप्न ꣳ सुवः ॥

दूर्वामादाय मार्जयेत् अथ दुर्वास्नानम्
ॐ काण्डात्काण्डात्प्ररोहन्ति परुषः परुषस्परि।
एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥
सहस्रपरमा देवी शतमूलाशताङ्कुरा ।
सर्वम् हरतु मे पापं दूर्वा दुः स्नप्ननाशिनी ॥
ॐ तच्छञ्ज्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वतिरस्तुनः ।
स्वस्तिमानुषेभ्य ऊर्ध्वं जिघातु भेषजं शन्नो
अस्तु द्विपदे शञ्चतुष्पदे ।

ॐ शान्तिः ॥

इति निमज्योन्मज्य पुनरघमर्षणं कुर्यात्
ॐ अघमर्षणसूक्तस्यामघर्षण ऋषिरनुष्टुपछन्दोभाववृत्तोदेवता अश्वमेधावभृथे (अघमर्षणे ) विनियोगः ।

ॐ ऋतञ्च सत्यञ्चाभिद्धा तपसोध्यजायत।
ततो रात्र्यजायत: ततः समुद्रोऽअर्णवः ।
  
समुद्रादर्णवादधिसंवत्सरोऽअजायत ।
  
अहो रात्राणि विदधद्विश्वस्य मिषतो वशी।
सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्॥
दिवञ्च पृथिवीञ्चान्तरिक्षमथो सुवः ।
इति अन्तर्जले अघमर्षणप्राणयामं कृत्वोन्मज्य संकल्पं कुर्यात् ।


भगवदाज्ञया भगवन्मुखोल्लासार्थम्पुरुषसूक्तेन स्नानमहं करिष्यामि ।

इति पुरुषसूक्तमुच्चरन् स्नायात् ।
तत आवाससा जले तिष्ठन्स्नानाङ्गतर्पणं कुर्यात् । पूर्वाभिमुखो भूत्वा जलाञ्जलिमादाय स्नानाङ्गतर्पणम्
कुर्यात् 

अथ स्नानाङ्गतर्पणम् 

ॐ श्रीसहितं केशवं तर्पयामि

ॐ लक्ष्मीसहितं नारायणं तर्पयामि

ॐ कमलासहितं माधवं तर्पयामि

ॐ पद्मासहित गोविन्दं तर्पयामि

ॐ पद्मिनीसहितं विष्णुं तर्पयामि

ॐ कमलालयासहितं मधुसूदनं तर्पयामि

ॐ रमासहितं त्रिविक्रमं तर्पयामि

ॐ वृषाकपिसहितं वामनं तर्पयामि

ॐ धन्यासहितं श्रीधरं तर्पयामि

ॐ पृथ्वीसहितं हृषीकेशं तर्पयामि

ॐ यज्ञासहितं पद्मनाभं तर्पयामि

ॐ इन्दिरासहितं दामोदरं तर्पयामि

ॐ हरिणीसहितं वासुदेवं तर्पयामि

ॐ हिरण्यासहितं संकर्षणं तर्पयामि

ॐ सत्यासहितं प्रद्युम्नं तर्पयामि

ॐ नित्यानन्दासहितं अनिरुद्धं तर्पयामि।

ॐ नन्दासहितं पुरुषोत्तमं तर्पयामि

ॐ त्रयीसहितं अधोक्षजं तर्पयामि

ॐ सुखासहितं नारसिंह तर्पयामि

ॐ सुगन्धासहितं अच्युतं तर्पयामि

ॐ सुन्दरीसहितं जनार्दनं तर्पयामि

ॐ विद्यासहितं उपेन्द्रं तर्पयामि

ॐ सुशीलासहितं हरिं तर्पयामि

ॐ सुलक्षणासहितं श्रीकृष्णं तर्पयामि

ॐ आधारशक्त्यादि समस्तवैकुण्ठपार्षदांस्तर्पयामि।

ॐ ब्रह्मादयो ये देवास्तां स्तर्पयामि।

ॐ भूर्देवांस्तर्पयामि।

ॐ भूवर्देवांस्तर्पयामि ।

ॐ स्वर्देवांस्तर्पयामि।

ॐ भूर्भुवः स्वर्देवांस्तर्पयामि ।

निवीति उत्तराभिमुखो भूत्वा ऋषितर्पणं कुर्यात्

ॐ द्वैपायनादयो ये ऋषयस्तांस्तर्पयामि।

ॐ भूः ऋषींस्तर्पयामि।

ॐ भुवः ऋषींस्तर्पयामि।

स्व: ऋषींस्तर्पयामि।

ॐ भूर्भुवः स्वः ऋषींस्तर्पयामि।

ततोऽपसव्येन दक्षिणाभिमुखोभूत्वा अवैष्णान् पितॄन् तर्पयेत्।
 वैष्णवान् पितॄन् तु सव्येनैव पूर्वाभिमुखोभूत्वैव तर्पयेत् ।

ॐ कव्यवाडनलादयो ये पितरस्तांस्तर्पयामि।

ॐ भूः पितॄन् तर्पयामि।

ॐ भुवः पितॄन् तर्पयामि

ॐ स्वः पितॄन् तर्पयामि

ॐ भूभुवः स्वः पितॄन् तर्पयामि

ॐ चतुर्दशयमांस्तर्पयामि

ॐ स्वपितृस्तर्पयामि।

ॐ पितामहांस्तर्पयामि।

ॐ प्रपितामहांस्तर्पयामि।

ॐ मातॄस्तर्पयामि

ॐ पितामहीस्तर्पयामि।

ॐ प्रपितामहीस्तर्पयामि।

ॐ मातामहान्तर्पयामि।

ॐ प्रमातामहान् तर्पयामि।

ॐ वृद्धप्रमातामहान् तर्पयामि।

ॐ मातामहीस्तर्पयामि।

ॐ प्रमातामहीस्तर्पयामि।

ॐ वद्धप्रमातामहीस्तर्पयामि।

ॐ आचार्यान्  तर्पयामि।

ॐ सर्वसंबन्धिन्  तर्पयामि।


ततो वक्षमाणमन्त्राम्पठजलाञ्जलिम्प्रदद्यात्

ॐ देवा सुरास्तथा यक्षा नागा गन्धर्वदानवाः।
पिशाचा गुह्यकाः सिद्धाः कुष्माण्डास्तरवः खगाः।

  जलेचरा भूनिलया वाय्या धाराश्च जन्तवः।
ते सर्वे तृप्तिमायान्तु मद्दत्तेनाम्बुनाखिलाः।

अग्नि दग्धाश्च ये जीवा येप्यदग्धा कुले मम ।
भूमौ दत्तेन तोयेन तृप्तायान्तु परां गतिम् ॥

  इति तीर्थतटे निक्षिप्य पुनर्जलान्जलिं गृहीत्वा

ॐ सुमित्रियान आप ओषधयः सन्तु ।
इति उच्चार्यः
ॐ दुर्मित्रिया तस्मै सन्तु योस्मान्द्वेष्टि यं च वयं द्विष्मः ॥
इति तीर्थतटे क्षिपेत् ।


ततः शिखां दक्षिणपूर्वे नामयन्निष्पीडयेत्

शिखोदकं भूपतितं पिबन्तु पितरोधमाः ।
तेषामाप्यायनायैव शिखा निष्पीडयाम्यहम्॥

पुनर्जलाञ्जलिमादाय

यन्मया दूषितं तोयं शरीरमलसम्भवात्।
तस्य पापस्य शुद्ध्यर्थं यक्ष्मैतत्ते जलाञ्जलि: 

 इति यक्ष्मतर्पणाय तीर्थतटे क्षिपेत् ।

 ततो धौतवस्त्रपरिधानं कृत्वा हस्ते जलाक्षतकुशहिरण्यमादाय संकल्पं कुर्यात् 

भगवदाज्ञया भगवत्कैर्यत्वेन करिष्यमाणोपाकर्मकर्मणयोग्यताप्राप्तये तप्तकृच्छचान्द्रायणादिप्रत्याम्नायरूपत्वेन अमुकगोत्रोत्पन्नामुकनामशर्माहं अमुकगोत्राय अमुकशमणे ब्राह्मणाय इदं हिरण्यादिद्रव्यं दातुमहमुत्सृजे।
इति संकल्प्य श्रीवैष्णवब्राह्मणाय दद्यात् ।

ततस्तिलकधारणं  कुर्यात् ।


इति उपाकर्मार्थे विशेषस्नानविधिः